Sbg 12.7 scsh

From IKS BHU
Revision as of 13:45, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।12.7।। --, तेषां मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्ता। कुतः इति आह -- मृत्युसंसारसागरात् मृत्युयुक्तः संसारः मृत्युसंसारः? स एव सागर इव सागरः? दुस्तरत्वात्? तस्मात् मृत्युसंसारसागरात् अहं तेषां समुद्धर्ता भवामि न चिरात्। किं तर्हि क्षिप्रमेव हे पार्थ? मयि आवेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतः येषां ते मय्यावेशितचेतसः तेषाम्।।यतः एवम्? तस्मात् --,