Sbg 11.52 scram
Sanskrit Commentary By Sri Ramanuja ।।11.52।।श्रीभगवानुवाच -- मम इदं सर्वस्य प्रशासने अवस्थितं सर्वाश्रयं सर्वकारणभूतं रूपं यत् दृष्टवान् असि? तत् सुदुर्दर्शं न केन अपि द्रष्टुं शक्यम् अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः? न तु दृष्टवन्तः।कुतः इत्यत्र आह --