Sbg 11.51 scval
Sanskrit Commentary By Sri Vallabhacharya ।।11.51।।ततो यथावदवस्थितः सन् अर्जुन उवाच -- दृष्ट्वेदमिति। निरवधिकातिशयसौन्दर्यसौकुमार्यलावण्यसौशील्यादियुक्तं सदानन्दमात्रकरपादमुखोदरादिरूपं सौम्यं मानुषं मनुष्यत्वसंस्थानस्थितं दृष्ट्वा सचेताः जातोऽस्मि। तदा तु विचेताः अमनाः अपाणिपादं तदमूर्त्तमव्ययम् इति वाक्यात्। इदानीं तु प्रकृतिं स्वभावं प्राप्तोऽस्मि।