Sbg 11.50 scram
Sanskrit Commentary By Sri Ramanuja ।।11.50।।संजय उवाच -- एवं पाण्डुतनयं भगवान् वसुदेवसूनुः उक्त्वा भूयः स्वकीयम् एव चतुर्भुज रूपं दर्शयामास? अपरिचितस्वरूपदर्शनेन भीतम् एनं पुनः अपि परिचित सौम्यवपुः भूत्वा आश्वासयामास च? महात्मा सत्यसंकल्पः।अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोः चतुर्भुजम् एव स्वकीयं रूपम् कंसाद् भीतवसुदेवप्रार्थनेन आकंसवधात् पूर्वं भुजद्वयम् उपसंहृतं पश्चाद् आविष्कृतं च।
जातोऽसि देवदेवेश शङ्खचक्रगदाधर। दिव्यरूपमिदं देव प्रसादेनोपसंहर।। (वि0 पु0 5।3।10)उपसंहर विश्वात्मन् रूपमेतच्चतुर्भुजम् (वि0 पु0 5।3।13) इति हि प्रार्थितम्।
शिशुपालस्य अपि द्विषतःअनवरतभावनाविषयं चतुर्भुजम् एव वसुदेवसूनो रूपम्उदारपीवर चतुर्बाहुं शङ्खचक्रगदाधरम्। (वि0 पु0 4।15।10) इति अतः पार्थेन अत्रतेनैव रूपेण चतुर्भुजेन (गीता 11।46) इति उच्यते।