Sbg 11.50 scsh
Sanskrit Commentary By Sri Shankaracharya ।।11.50।। --, इति एवम् अर्जुनं वासुदेवः तथा भूतं वचनम् उक्त्वा? स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः। आश्वासयामास च आश्वासितवान् भीतम् एनम्? भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ।। अर्जुन उवाच --,