Sbg 11.48 scval

From IKS BHU
Revision as of 13:42, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।11.48।।मदनुग्रहैकलभ्यभक्तिव्यतिरिक्तैस्तु सर्वैरप्युपायैरेवमपि द्रष्टुमशक्य इत्याह -- न वेदेति। अहं पुरुषोत्तमः कृष्ण एवंरूपमैश्वरं यस्य स विशिष्टो नृलोके द्रष्टुमशक्यः केवलोऽक्षरादिस्तु स्वोपासकानां वेदप्रवचनादिसाधनैर्द्रष्टुं शक्योऽपि भवति? नाहं पुरुषोत्तमः अनन्यभक्तिलभ्यत्वात्भक्त्याऽहमेकया ग्राह्यः इति [11।14।21] भागवतवाक्यात्। तत्रापि त्वत्तो मदनुगृहीताद्भक्तादन्ये नैवमपि द्रष्टुं न शक्ताः एतद्दर्शनस्यापि मदनुग्रहलभ्यत्वात् त्वं तु केवलं मदनुग्रहात् दृष्टवानसि। इयमेव पुष्टिःपोषणं तदनुग्रहः इति [2।10।4] भागवतवाक्यात्।तद्रहितानामपि स्वप्रमेयबलेन स्वप्रापणं पुष्टिः इति भाष्यकारः। दैवस्य निग्रहणमनु सर्वसाधनकरणेनापि पुरुषोत्तमस्वरूपालाभे दैन्येनार्त्ततया च दृढतरबीजरूपासक्तिभावमनुग्रहणं भगवता यत्र भवति सोऽनुग्रहश्च पुष्टिरिति सङ्क्षेपः। तदिदं प्रमेयवर्त्म भागवतषष्ठस्कन्धे -- सध्रीचीनो ह्ययं पन्था लोके,क्षेमोऽकुतोऽभयः [अ.1।17] इति शुकेन धर्मविष्णुदूतसंवादोपाख्यानद्वारा स्पष्टमेव दर्शितमिति ततोऽवसेयम्। अत्रोपपत्तिर्भक्तिहेतुग्रन्थेऽनेकधा निरूपिता द्रष्टव्या।