Sbg 11.48 scsh
Sanskrit Commentary By Sri Shankaracharya ।।11.48।। --, न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैश्च -- वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् -- तथा न दानैः तुलापुरुषादिभिः? न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः? न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः? एवंरूपः यथादर्शितं विश्वरूपं यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलो के मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ।।