Sbg 11.43 scram

From IKS BHU
Revision as of 13:41, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।11.43।। अप्रितमप्रभाव त्वम् अस्य चराचरस्य लोकस्य पिता असि अस्य लोकस्य गुरुः च असि। अतः त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः। न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि त्वदन्यः कारुण्यादिना केन अपि गुणेन न त्वत्समः अस्ति कुतः अभ्यधिकः।यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुः च कारुण्यादिगुणैः च सर्वाधिकः असि --