Sbg 11.40 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha ।। 11.40 इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वन्दन्त्यग्निं यमं मातरिश्वानमाहुः [ऋक्सं.2।3।22।6तै.ब्रा.3।7।9।3] तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः। तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः [तै.ना.1।7] इत्यादिश्रुत्युपबृंहणाभिप्रायेणत्वया ततं विश्वम् [11।38] इति निर्दिष्टं शरीरात्भावंवायुर्यमोऽग्निः इत्यादिसामानाधिकरण्यहेतुत्वेनाहअतस्त्वमेवेति। सम्बन्धिविशेषानुपादानात्प्रपितामहत्वं सर्वप्रतिसम्बन्धिकमित्यभिप्रायेणाहसर्वेषां प्रपितामहस्त्वमेवेति। चशब्दः पितामहादिसमुच्चयार्थक इत्यभिप्रयन्नाहपितामहादयश्चेति। सर्वप्रपितामहस्य कस्यचिदभापेन तच्छरीरकत्वेन प्रपितामहत्वायोगादन्यथा तदाहसर्वासां प्रजानां पितर इत्यादिना। प्रजापतयः दक्षादयः। चशब्दसमुच्चितपितामहत्वं तु तच्छरीरकतयेत्याहपितामहादीनामात्मतयेति। नमो नमस्तेऽस्तु इत्यादिनोक्तनमने विश्वरूपप्रदर्शनप्रकटितपरत्वसौलभ्यानुभवजनितभयहर्षावेव हेतुरित्यभिप्रायेणाह -- अत्यद्भुताकारमिति।अनन्तस्य वीर्यमिव वीर्यं यस्येत्यन्यथाप्रतिपत्तिवारणायाहअपरिमितवीर्येति। अमितशब्दस्याप्रमितपरत्वे शास्त्रादिसिद्धिनिरोधात्अपरिमितपराक्रम इत्युक्तम्।सर्वं समाप्नोपि इत्यत्राकाशादिवद्व्याप्तिव्युदासाय अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा [चित्यु.11।1] इत्यादिश्रुत्युक्तात्मत्वपर्यवसितनियमनार्थव्याप्तिर्विवक्षितेत्यभिप्रयन्नाह -- सर्वमात्मतयेति। पुरुष एवेदं सर्वम् [ऋक्सं.8।4।17।2यजुस्सं.31।2]आत्मैवेदं सर्वं [छां.उ.7।25।2]नारायण एवेदं सर्वम् [ना.उ.2] इत्यादिश्रुतिस्थसर्वशब्दसामानाधिकरण्योपबृंहणायसर्वत एव सर्व इति पूर्वोक्तसर्वशब्दसामानाधिकरण्यं न बाधाद्यर्थम्? अपितु शरीरात्मभावनिबन्धनविशिष्टैक्यपरमित्युक्तमित्यभिप्रायेणाह -- यतस्त्वमित्यादि। सकलवेदवेदान्ततदुपबृंहणेषु भगवद्वाचिशब्दानां सर्वचिदचिद्वस्तुवाचिसामान्यविशेषसकलशब्दसामानाधिकरण्यस्यापि शरीरात्मभाव एव निबन्धनमित्येतत्प्रघट्टफलितमित्यभिप्रायेणाहत्वमक्षरं सदसदित्यादि।