Sbg 11.40 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।11.40।।तुभ्यं पुरस्तात् अग्रभागे नमोस्तु? तुभ्यं पुरो नमःस्तादिति वा। अथशब्दः समुच्चये। पृष्ठतोऽपि तुभ्यं नमःस्तात् नमोस्तु। ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय। हे सर्व? वीर्यं शारीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलंएकं वीर्याधिकं मन्य उतैकं शिक्षयाधिकम् इत्युक्तेर्भीमदुर्योधनयोरन्येषु च एकैकं व्यवस्थितं। त्वं तु अनन्तवीर्यश्चामितविक्रमश्चेति समस्तमेकं पदं। अनन्तवीर्येति संबोधनं वा। सर्वं समस्तं जगत्समाप्नोषि सम्यगेकेन सद्रूपेणाप्नोषि सर्वात्मना व्याप्नोषि ततस्तस्मात्सर्वोऽसि। त्वदतिरिक्तं किमपि नास्तीत्यर्थः।