Sbg 11.40 scram
Sanskrit Commentary By Sri Ramanuja ।।11.40।। अनन्तवीर्यामितविक्रमः त्वं सर्वम् आत्मतया समाप्नोषि ततः सर्वः असि? यतः त्वं सर्वं चितचिद्वस्तुजातम् आत्मतया समाप्नोषि। अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात् सर्वप्रकारः त्वम् एव सर्वशब्दवाच्यः असि इत्यर्थः।
त्वमक्षरं सदसत् (गीता 11।37)वायुर्यमोऽग्निः (गीता 11।39) इत्यादिसर्वसामानाधिकरण्यनिर्देशस्य आत्मतया व्याप्तिः एव हेतुः इति सुव्यक्तम् उक्तम्।त्वया ततं विश्मनन्तरूप (गीता 11।38) सर्वं समाप्नोषि ततोऽसि सर्वः।।इति च।