Sbg 11.40 scsh
Sanskrit Commentary By Sri Shankaracharya ।।11.40।। --, नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्? अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु? ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य? अमितः विक्रमः अस्य। वीर्यं सामर्थ्यं विक्रमः पराक्रमः। वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते? मन्दपराक्रमो वा। त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः। सर्वं समस्तं जगत् समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः? ततः तस्मात् असि भवसि सर्वः त्वम्? त्वया विनाभूतं न किञ्चित् अस्ति इति अभिप्रायः।।यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः? अतः --,