Sbg 11.38 scram
Sanskrit Commentary By Sri Ramanuja ।।11.38।।
त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परं निधानम्?
निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्? विश्वस्य शरीरभूतस्य आत्मतया परमाधारभूतः त्वम् एव इत्यर्थः।जगति सर्वो वेदिता
वेद्यं च
सर्वं त्वम् एव? एवं सर्वात्मतया अवस्थितः त्वम् एव
परं च धाम
स्थानं प्राप्यस्थानम् इत्यर्थः।
त्वया ततं विश्वम् अनन्तरूप
त्वया आत्मत्वेन विश्वं चिदचिन्मिश्रं जगत् ततं व्याप्तम्।अतस्त्वम् एव वाय्वादिशब्दवाच्य इति आह --