Sbg 11.33 scram
Sanskrit Commentary By Sri Ramanuja ।।11.33।। तस्मात् त्वं तान् प्रति युद्धाय उत्तिष्ठ? तान् शत्रून् जित्वा यशो लभस्व? धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व। मया एव एते कृतापराधाः पूर्वम् एव निहताः? हनने विनियुक्ताः? त्वं तु तेषां हनने निमित्तमात्रं भव। मया हन्यमानानां शस्त्रादिस्थानीयो भव? सव्यसाचिन्षच समवाये (धा0 पा0 1।1022) सव्येन शरसचनशीलः सव्यसाची सव्येन अपि करेण शरसमवायकरः? करद्वयेन योद्धुं समर्थ इत्यर्थः।