Sbg 11.22 scdhan
Sanskrit Commentary By Sri Dhanpati ।।11.22।।किंचैद्रूपं दृष्ट्वा नाहमेव विस्मयाविष्टः? अपि तु रुद्रादयोऽपीत्याह -- रूद्रेति। ऊष्माणं पिबन्तीत्ययूष्मपाः पितरः।ऊष्मभागा हि पितरः।यावदुष्णं भवेदन्नं यावदश्चन्ति वाग्यताः। पितरस्तावदश्रन्ति यावन्नोक्ता हविर्गुणाः इति श्रुतिस्मृतभ्याम्। गन्धर्वा हाहाहूहूप्रभृतयः? यक्षाः कुबेरादयः? असुरा विरोचनादयः? सिद्धाः कपिलादयः? तेषां सङ्घाः समूहास्त्वां पश्यन्ति। सर्वे विस्मिता विस्मयं प्राप्ता एव च।