Sbg 11.22 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।11.22।। किंच -- रुद्रेति। रुद्राश्चादित्याश्च वसवश्च ये च साध्यानाम देवाः? विश्वेदेवा अश्िवनौ देवौ? मरुतो मरुद्गणाः? ऊष्माणं पिबन्तीत्यूष्मपाः पितरः?ऊष्मभागा हि पितरः इत्यादिश्रुतेः। स्मृतिश्चयावदुष्णं भवेदन्नं यावदश्नन्ति वाग्यताः। पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः।। इति। गन्धर्वाश्च यक्षाश्चासुराश्च विरोचनादयः? सिद्धानां सङ्घाश्च ते सर्व एव विस्मिताः सन्तः त्वां वीक्षन्त इत्यन्वयः।