Sbg 11.20 scram

From IKS BHU
Revision as of 13:35, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।11.20।।द्युशब्दः पृथिवीशब्दश्च उभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थौ? द्यावापृथिव्योः अन्तरम् अवकाशः? यस्मिन् अवकाशे सर्वे लोकाः तिष्ठन्ति? सर्वः अयम् अवकाशः दिशश्च सर्वाः त्वया एकेन व्याप्ताः। दृष्ट्वा अद्भूतं रूपम् उग्रं तव इदम् अनन्तायामविस्तारम् अत्यद्भुतम् अति उग्रं तव रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् -- युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितम्? अत्यन्तभीतम् महात्मन् अपरिच्छेद्यमनोवृत्ते।ऐतेषाम् अपि अर्जुनस्य इव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुः भगवता दत्तम्। किमर्थम् इति चेत् अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् अत इदम् उच्यते -- दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् इति।