Sbg 11.4 scjaya
Sanskrit Commentary By Sri Jayatritha ।।11.4।।मन्यसे यदि इत्यत्र प्रभुशब्दो न स्वामित्वमात्रार्थः किन्तु तवातिसामर्थ्यात् त्वत्सामर्थ्येनैवातीन्द्रियस्यापि दर्शनमिति भावेन प्रयुक्त इत्याशयेनाह -- प्रभुरि ति। ईश्वरस्य निरतिशयसामर्थ्ये प्रमाणमाह -- नास्ती ति। भूतं समर्थम्। प्रभुशब्दस्य समर्थार्थत्वेऽभिधानमाह -- प्रभुरि ति।