Sbg 11.2 scram

From IKS BHU
Revision as of 13:19, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।11.2।।तथा सप्तमप्रभृति दशमपर्यन्तं त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मानो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशः मया श्रुतौ। हे कमलपत्राक्ष तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैः तव एव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तव एव प्रवर्तयितृत्वम्? इत्यादि अपरिमितं माहात्म्यं च श्रुतम् हि शब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः।