Sbg 11.1 scram
Sanskrit Commentary By Sri Ramanuja ।।11.1।।अर्जुन उवाच -- देहात्माभिमानरूपमोहेन मोहितस्य मम अनुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यम् अध्यात्मसंज्ञितम् आत्मनि वक्तव्यं वचःन त्वेवाहं जातु नासम् (गीता 2।12) इत्यादितस्माद्योगी भवार्जुन (गीता 6।46) इत्येतदन्तं यत् त्वया उक्तम्? तेन अयं मम आत्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः।