Sbg 10.12 scdhan

From IKS BHU
Revision as of 13:12, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।10.12।।मच्चित्तत्वादिप्रकारभक्तिद्वाराऽविकम्पयोगसाधनभूतौ विभूतियोगौ संक्षेपतः श्रुत्वा विस्तरश्रवणोत्सुकः अर्जुन उवाच -- परमिति। भवान् वासुदेवः परं अक्षरं निरञ्जनं निर्गुणं ब्रह्म। परस्य ब्रह्मणो लक्षणमाह। परं धाम परं तेजः सूर्यादितेजसामपि तेजः।यस्य भासा सर्वमिदं विभाति इति श्रुतेः। अस्यार्थस्य निरञ्जने ब्रह्मणि सामञ्जस्यमभिप्रेत्य परं धाम परं स्थानमित्यर्थ आचार्यैरुपेक्षितः। पवित्रं पावनं परमं प्रकृष्टं ज्ञानमात्रेण सवासनाऽविद्याकामकर्मेभ्यो मोचकत्वात्। एतादृशं परं ब्रह्म भवानेव नान्यः। नन्वेत्त्वया कुतो ज्ञातमिति चेदाप्तवाक्यादित्याह। पुरुषं परि शयं पूर्णं परमात्मानं अतएव शाश्वतं सर्वदैकरसं दिव्यं दिवि परमे व्योम्नि हृदयाकाशे भवं दिव्यम्। आदिदेवं सर्वेषां ब्रह्मादिदेवानामादिभवं अतएवाजं। विभुं विभवनशीलं। विभवनमित्यस्य विविधं भवनमिति व्यापनमिति वार्थः।