Sbg 10.9 scram
Sanskrit Commentary By Sri Ramanuja ।।10.9।। मच्चित्ताः मयि निविष्टमनसः? मद्गतप्राणाः मद्गतजीविताः मया विना आत्मधारणम् अलभमाना इत्यर्थः। स्वैः स्वैः अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः? मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च। वक्तारः तद्वचनेन अनन्यप्रयोजनेन तुष्यन्ति? श्रोतारश्च तच्छ्रवणेन अनवधिकातिशयप्रियेण रमन्ते।