Sbg 10.5 scneel
Sanskrit Commentary By Sri Neelkanth ।।10.5।।अहिंसा प्राणिनामपीडा। समता मित्रामित्रादौ समचित्तता। तुष्टिः संतोषो लब्धे पर्याप्तबुद्धिः। तप इन्द्रियसंयमपूर्वकं शरीरपीडनम्। दानं यथाशक्ति संविभागः। यशो धर्मनिमित्ता कीर्तिः। अयशोऽधर्मनिमित्ता अकीर्तिः। एते बुद्ध्यादयो विंशतिर्भावा मत्त एव प्राणिनां भवन्ति। पृथग्विधाः प्रत्येकं नानाप्रकाराः। तत उत्तमगुणलाभायाहमेव त्वया शरणीकरणीय इति भावः।