Sbg 9.34 scram

From IKS BHU
Revision as of 13:09, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।9.34।। मन्मना भव मयि सर्वेश्वरे निखिलहेयप्रत्यनीककल्याणैकताने सर्वज्ञे सत्यसंकल्पे निखिलजगदेककारणे परस्मिन् ब्रह्मणि पुरुषोत्तमे पुण्डरीकदलामलायतेक्षणे स्वच्छनीलजीमूतसंकाशे युगपदुदितदिनकरसहस्रसदृशतेजसि लावण्यामृतमहोदधौ उदारपीवरचतुर्बाहौ अत्युज्जवलपीताम्बरे अमलकिरीटमकरकुण्डलहारकेयूरकटकादिभूषिते,अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्यौदार्यवात्सल्यजलधौ अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावद् अविच्छेदेन निविष्टमना भव।तद् एव विशिनष्टि -- मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मनो भव इत्यर्थः।पुनः अपि विशिनष्टि -- मद्याजी अनवधिकातिशयप्रियमदनुभवकारि -- तमद्यजनपरो भव।यजनं नाम परिपूर्णशेषवृत्तिः? औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः।यथा मदनुभवजनितनिरवधिकातिशयप्रीतिकारितमद्यजनपरो भवसि तथा मन्मना भव इत्युक्तं भवति।पुनः अपि तद् एव विशिनष्टि -- मां नमस्कुरु? अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन् मयि अन्तरात्मनि अतिमात्रप्रह्वीभावव्यसायं कुरु। मत्परायणः अहम् एव परम् अयनं यस्य असौ मत्परायणः? मया विना आत्मधारणासंभावनया मदाश्रय इत्यर्थः। एवम् आत्मानं युक्त्वा मत्परायणः त्वम् एवम् अनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य माम् एव एष्यसि। आत्मशब्दो हि अत्र मनोविषयः।एवंरूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्टवा मां नमस्कृत्य मत्परायणो माम् एव प्राप्स्यसि इत्यर्थः।तद् एवं लौकिकानि शरीरधारणार्थानि वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो मया एव कारित इति कुर्वन् सततं मत्कीर्तनयजननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगत् मच्छेषतैकरसम् इति च अनुसंदधानः? अत्यर्थप्रियमद्गुणगणं च अनुसंधाय अहरहः उक्तलक्षणम् इदम् उपासनम् उपादधानो माम् एव प्राप्स्यसि।