Sbg 9.28 scneel
Sanskrit Commentary By Sri Neelkanth ।।9.28।।एवं कुर्वतः फलमाह -- शुभाशुभेति। शुभाशुभफलैरिष्टानिष्टफलैः कर्मरूपैर्बन्धनैरेवं कुर्वन् त्वं मोक्ष्यसे भगवदर्पणबुद्ध्या यत्किञ्चित्कर्म कुर्वतः कर्मलेपो नास्तीत्यर्थः। अयमेवोक्तलक्षणः कर्मफलसंन्यासरूपो,मार्गस्तत्र युक्तात्मा समाहितचित्तः सन् विमुक्तः कर्मबन्धनैर्विमुक्तः सन् मां सर्वेषां प्रत्यगात्मानमुपैष्यसि।