Sbg 9.28 scsh
Sanskrit Commentary By Sri Shankaracharya ।।9.28।। --, शुभाशुभफलैः एवं शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्ष्यसे। सोऽयं संन्यासयोगो नाम? संन्यासश्च असौ मत्समर्पणतया कर्मत्वात् योगश्च असौ इति? तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि।।रागद्वेषवान् तर्हि भगवान्? यतो भक्तान् अनुगृह्णाति? न इतरान् इति। तत् न --,