Sbg 9.21 scneel
Sanskrit Commentary By Sri Neelkanth ।।9.21।।त्रयी वेदत्रयी तस्यामुक्तं धर्मं त्रयीधर्मं काम्ययज्ञं कामकामाः विषयकामुकाः गतागतं यातायातं सातत्येन लभन्ते। तथाच श्रुतिःप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यान्ति इति। अष्टादशेति षोडशर्त्विजः यजमानः पत्नी चेति द्वौ।