Sbg 9.16 scneel
Sanskrit Commentary By Sri Neelkanth ।।9.16।।इदमेवोपासनं विवृणोति -- अहमिति। क्रतुः संकल्पो देवताध्यानरूपः। यज्ञः श्रौतः स्मार्तश्च देवतोद्देशेन द्रव्यत्यागः। स्वधा पितृ़णामन्नम्। औषधं मनुष्याणामन्नम्। मन्त्रो येन दीयते सः। आज्यं हविः। अग्निः। हुतं प्रक्षेपक्रिया। इदं सर्वं यस्मादहमेवातस्तेषां विश्वतोमुखमुपासनं युक्ततरमित्यर्थः।