Sbg 9.12 scanand
Sanskrit Commentary By Sri Anandgiri ।।9.12।।भगवन्तमवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति -- कथमिति। भगवन्निन्दापराणां न काचिदपि प्रार्थनार्थवतीत्याह -- वृथेति। ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्मानुतिष्ठन्ति? तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्तीति नेत्याह -- तथेति। परिभवस्तिरस्करणम्? अवज्ञानमनादरणम्। तेषामपि शास्त्रार्थाज्ञानवतां तद्द्वारा प्रार्थनार्थवत्त्वमित्याशङ्क्याह -- तथा मोघेति। तथापि यौक्तिकविवेकवशात्तत्प्रार्थनासाफल्यमित्याशङ्क्याह -- विचेतस इति। न केवलमुक्तविशेषणवत्त्वमेव तेषां किंतु वर्तमानदेहपातादनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चितेत्याह -- किञ्चेति। मोहकरीमिति प्रकृतिद्वयेऽपि तुल्यं विशेषणं? छिन्धि भिन्धि पिब खादेति प्राणिहिंसारूपो रक्षसां स्वभावः? असुराणां स्वभावस्तु न देहि नो जुहुधि परस्वमेवापहरेत्यादिरूपः? मोहो मिथ्याज्ञानम्। उक्तमेव स्फुटयति -- छिन्धीति।