Sbg 9.11 scmad
Sanskrit Commentary By Sri Madhavacharya ।।9.11।।तर्हि केचित्कथं त्वामवजानन्ति का च तेषां गतिः इत्यत आह -- अवजानन्तीत्यादिना। मानुषीं तनुं? मूढानां मानुषवत्प्रतीतां तनुं? न तु मनुष्यरूपाम्। उक्तं च मोक्षधर्मेयत्किञ्चिदिह लोकेऽस्मिन्देहबद्धं विशाम्पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः। ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्। भूतान्तरात्मा वग्दः सगुणो निर्गुणोऽपि च। भूतप्रलयमव्यक्तं शुश्रूषु(शुणुष्व) -- र्नृपसत्तम [म.भा.12।347।1113] इति। अवतारप्रसङ्गे चैतदुक्तम्। अतो नावताराः पृथक् शङ्क्याः।रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः। वाराहं नारसिंहं च वामनं मानुषं तथा [म.भा.12।349।37] इति। तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्तेः। अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम्। भूतं महदीश्वरं चेति भूतमहेश्वरम्। तथा हि (सामवेदे) बाभ्रव्यशाखायाम् -- अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम् इति। अस्य महतो भूतस्य निश्श्वसितम् [बृ.उ.2।4।10] इति च।ब्रह्मपुरोहित ब्रह्मकायिक राजिक महाराजिकं -- इति च मोक्षधर्मे [म.भा.12।338नाम4043]।