Sbg 9.11 scram
Sanskrit Commentary By Sri Ramanuja ।।9.11।।एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसंकल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्वकृतैः पापकर्मभिः मूढा अवजानन्ति -- प्राकृतमनुष्यसमं मन्यन्ते। भूतमहेश्वरस्य मम अपारकारुण्यौदार्यसौशील्यवात्सल्यादिनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्वसमाश्रयणमात्रेण माम् इतरसजातीयं मत्वा तिरस्कुर्वन्ति इत्यर्थः।