Sbg 9.10 scram
Sanskrit Commentary By Sri Ramanuja ।।9.10।।तस्मात् क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसंकल्पेन मया अध्यक्षेण ईक्षिता सचराचरं जगत् सूयते? अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगद् विपरिवर्तते इति मत्स्वाम्यं सत्यसंकल्पत्वं नैर्घृण्यादिदोषरहितत्वम् इत्येवमादिकं मम वसुदेवसूनोः ऐश्वरं योगं पश्य। यथा श्रुतिः -- अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्वान्यो मायया संनिरूद्धः।।मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् (श्वेता0 4।910) इति।