Sbg 9.9 scjaya

From IKS BHU
Revision as of 13:02, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।9.9।।स्वतः कर्तृत्वे कथमुदासीनत्वमुच्यते इति चेत्? न वतिना तस्य निषिद्धत्वादिति भावेनाह -- उदासीनव दिति। अनुदासीनत्वेऽपि वतिर्व्यर्थः स्यात्? अन्यस्य तदर्थस्याभावादित्यत आह -- तदर्थमि ति। वत्यर्थं सादृश्यं स्वयमेव विवृणोतीत्यर्थः। परमेश्वरस्य कर्मसु सक्त्यभावे प्रमाणमाह -- अवाक्ये ति। सर्वथोदासीन एव किं न स्यात् इति चेत्? न तथा सति प्रकृत्यादीनामसत्त्वप्रसङ्गादिति भावेनाह -- द्रव्यमि ति। यदीश्वरस्य स्वतः कर्तृत्वं स्यात्तदाउदासीनं इत्येतत्?न तु मां तानि कर्माणि निबध्नन्ति इत्यत्र कथं हेतुः स्यात् इत्यत आह -- यस्ये ति। असक्त्या अनादरेणानायासेनेति यावत्। भगवतोऽपि कर्मबन्धोऽस्तीति केषाञ्चित्प्रलापः? यथाविष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे [भ.नी.श.92] इत्यादि तन्निरासाय श्रुत्युपपत्ती प्राह -- न कर्मणे ति। नियामयति नियच्छति।