Sbg 9.7 scjaya
Sanskrit Commentary By Sri Jayatritha ।।9.7।।यथामया ततम् [9।4] इत्याद्युक्तोपपादनार्थान्युत्तरवाक्यानि? न तथा सर्वभूतानीत्यादि किन्तु स्वतन्त्रमेव ज्ञानप्रतिपादकमिति भावेनाह -- ज्ञाने ति। प्रलयादीति तत्कारणत्वम्?प्रकृतिं स्वामवष्टभ्य [9।8],इति वचनात्।