Sbg 9.7 scram
Sanskrit Commentary By Sri Ramanuja ।।9.7।।स्थावरजङ्गमात्मकानि सर्वाणि भूतानि मामिकां मच्छरीरभूतां प्रकृतिं तमःशब्दवाच्यां नामरूपविभागानर्हां कल्पक्षये चतुर्मुखावसानसमये मत्संकल्पाद् यान्ति। तानि एव भूतानि कल्पादौ पुनः विसृजामि अहम्। यथा आह मनुः -- आसीदिदं तमोभूतम् (मनु0 1।5)सोऽभिध्याय शरीरात् स्वात् (मनु0 1।8) इति श्रुतिरपि -- यस्याव्यक्तं शरीरम् (सु0 उ 0 7) इत्यादिकाअव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते? तमः परे देवे एकीभवति (सु0 उ 0 2)तम आसीत्तमसा गूढमग्रेऽप्रकेतम् (ऋ0 सं0 8।7।17।3) इति च।