Sbg 9.6 scval
Sanskrit Commentary By Sri Vallabhacharya ।।9.6।।असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह -- यथाकाशस्थित इति। अवकाशं विनाऽवस्थानानुपपत्तेर्नित्यमाकाशाधारो वा वायुरभ्युपेयते? स च नाकाशेन संश्लिष्यते? निरवयवत्वेन संश्लेषायोगात् तथा सर्वभूतानि मयि जानीहि। वस्तुतस्तु महाभूतान्यपि सर्वाणि मदाधारशक्त्यैवोपष्टब्धानि। मयैव विधृतान्याकाशादीनि। अक्षरमूर्तिना मयैव सर्वं विधृतमित्यर्थः। तथा च श्रूयतेएतस्यैवाक्षरस्य प्रशासने गार्गि [द्यावापृथिवी] सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ৷৷. द्यावापृथिव्यौ विधृते (अव) तिष्ठतः [बृ.उ.3।8।9] इत्यादि।