Sbg 9.5 scang
Sanskrit Commentary By Sri Abhinavgupta ।।9.5।।न चेति। न च मत्स्थानि -- अविद्यान्धानां तत्त्वादृष्टेः। न हि मूढा अविच्छिन्नसंवित्स्वभावं परमेश्वरं समस्तवस्तुपरिच्छेदप्रतिष्ठास्थानं मन्यन्ते। अपि तु कृशो देवदत्तोऽहम् इदं वेद्मि भूतले (S omits भूतले) इदं स्थितम् इति मितमेवस्वभावं प्रतिष्ठास्थानतया (N प्रतिष्ठानस्थानतया) पश्यन्ति।ननु कथमेतद्विरुद्धम् [उच्यते] इत्या [शङ्क्या] ह पश्य योगमैश्वरम्इति। योगः शक्तिः युज्यमानत्वात्। एतदेव ममैश्वर्यम्? यदेवं निरतिशयाद्भुतवृत्ति स्वातन्त्र्यमित्यर्थः।