Sbg 9.2 scneel

From IKS BHU
Revision as of 13:00, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।9.2।।एतदेव स्तौति -- राजविद्येति। विद्यानां राजा इति राजविद्या अध्यात्मविद्या। गुह्यानां राजा इति राजगुह्यम्।राजदन्तादिषु परम् इत्युपसर्जनस्य परनिपातः। पवित्रं पावनम्। उत्तमं पूर्वापरदुरितनाशाश्लेषहेतुत्वात्प्रायश्चित्ताद्यपेक्षया श्रेष्ठम्। प्रत्यक्षावगमं प्रत्यक्षं नित्यापरोक्षं यत्प्रत्यगात्मवस्तु तदेव याथात्म्येनावगम्यतेऽनेनेति प्रत्यक्षावगमं? प्रत्यक्षेण सुखादिवद्गमो यस्येति वा। अस्मिन्पक्षे विज्ञानसहितमिति विशेषणस्य श्लोकान्तरस्थत्वान्न तेन पौनरुक्त्यदोषः। तर्हि अपूर्वत्वाभावान्निष्फलं स्यादत आह। धर्म्यं धर्मादनपेतम्। तथाहि क्षणमपि प्रत्यगात्माकारवृत्तौ सत्यां श्रूयतेक्षणमेकं क्रतुशतस्य चतुःसप्तत्या यत्फलं तद्वाप्नोति इति। तर्हि दुःसाध्यं स्यान्नेत्याह -- सुसुखं कर्तुमिति। कर्तुं संपादयितुमाविष्कर्तुं सुसुखमनायाससाध्यम्। अज्ञानापनयमात्रसिद्धत्वात्। तर्हि आशुविनाशिफलं चेत्। अव्ययं? वस्तुमात्रविषयत्वात्। अनन्तफलं नतु कर्मफलवन्नश्यति।