Sbg 9.2 scjaya

From IKS BHU
Revision as of 13:00, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।9.2।।राज्ञामश्वपतिजनकादीनां विद्या राजविद्येति कश्चित्? तदसत् ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाह -- राजे ति। राजेव राजा? राजा चासौ विद्या चेति राजविद्येत्यर्थः। प्रत्यक्षेणावगमो यस्येति (शां.) व्याख्यानमसत्। भगवन्माहात्म्यस्य शास्त्रैकसमधिगम्यत्वात्अद्वैतोद्गारस्य प्रमाणविरुद्धत्वादिति भावेनाह -- प्रत्यक्षमि ति। शास्त्रैकवेद्यं ब्रह्म कथं प्रत्यक्षं इत्यत आह -- अक्षेष्वि ति। प्रत्यक्षः परमात्मा। प्रादिसमासोऽयं? नाव्ययीभाव इति ज्ञापनाय नपुंसके प्रकृतेऽपि पुँल्लिङ्गनिर्देशः? अन्यथा षष्ठी न श्रूयेत। परमात्मनोऽक्षेषु स्थितत्वे किं मानं इत्यत आह -- तथा चे ति। प्राण इति प्राणाभिमानिनी देवतोच्यते? प्राणादन्तरो भिन्नः। अङ्गुष्ठेति कर्मेन्द्रियाधिष्ठातृत्वमुच्यते। मन इत्यादेर्मनआदिस्थ इत्यर्थः। प्रत्यक्षशब्दस्यायमर्थ इत्यत्र श्रुतिमाह -- स इति। प्रतिस्थितः। अक्षवान् प्रशस्तेन्द्रियः। यो विद्वानेवं प्रत्यक्षशब्दार्थं वेद। धर्मादनपेतं धर्म्यमिति निर्वचनेऽपि न प्रसिद्धधर्माविरुद्धत्वमर्थः? निवृत्तधर्मस्य ब्रह्मज्ञानाविरुद्धतायाः प्रसिद्धत्वात्। प्रवृत्तिलक्षणस्य तु तद्विरुद्धत्वादिति भावेनाह -- धर्म इति। तस्मादनपेतमित्यर्थस्तद्विषयमिति। कथं भगवान् धर्मः इत्यत आह -- सर्वमि ति। धृञो मन्प्रत्यय औणादिकः। धारके धर्मशब्दप्रवृत्तिः कुतः इत्यत आह -- पृथिवी ति। पर्वतोपरीत्यर्थः। भगवतः सर्वधारकत्वे किं मानं इत्यत आह -- भारभृदि ति। सर्वत्र स्थितो भगवान् सर्वेण ध्रियते? स कथं सर्वस्य धारकः इत्यत आह -- भर्ते ति। भर्ता सन्नेव म्रियमाणो न स्वकीयस्थित्यै। धर्मशब्दस्य भगवद्वाचित्वं कुतः इत्यत आह -- धर्मो वा इति। इदमग्रे अस्याग्रे। अत्र पुण्यं धर्मः किं न स्यात् इति शङ्कानिरासार्थं सोऽध्यायदिति वाक्यशेषोदाहरणम्।