Sbg 8.23 scsh
Sanskrit Commentary By Sri Shankaracharya ।।8.23।। -- यत्र काले प्रयाताः इति व्यवहितेन संबन्धः। यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव। योगिनः इति योगिनः कर्मिणश्च उच्यन्ते कर्मिणस्तु गुणतः -- कर्मयोगेन योगिनाम् (गीता 3।3) इति विशेषणात् -- योगिनः। यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति यत्र काले च प्रयाताः आवृत्तिं यान्ति तं कालं वक्ष्यामि भरतर्षभ ।।तं कालमाह --,