Sbg 8.20 scms

From IKS BHU
Revision as of 12:32, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।8.20।।एवमवशानामुत्पत्तिविनाशप्रदर्शनेनआब्रह्मभुवनाल्लोकाः पुनरावर्तिनः इत्येतद्व्याख्यातं अधुनामामुपेत्य पुनर्जन्म न विद्यते इत्येतद्व्यांचष्टे द्वाभ्याम् -- तस्माच्चराचरस्थूलप्रपञ्चकारणभूताद्धिरण्यगर्भाख्यादव्यक्तात्परो व्यतिरिक्तः श्रेष्ठो वा,तस्यापि कारणभूतः। व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याह -- अन्योऽत्यन्तविलक्षणः।न तस्य प्रतिमा अस्ति इति श्रुतेः। अव्यक्तो रूपादिहीनतया चक्षुराद्यगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्रूपेणानुगतः। अतएव सनातनो नित्यः। तुशब्दो हेयादनित्यादव्यक्तादुपादेयत्वं नित्यस्याव्यक्तस्य वैलक्षण्यं सूचयति। एतादृशो यो भावः हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्वपि न विनश्यति उत्पद्यमानेष्वपि नोत्पद्यत इत्यर्थः। हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्तावेवोत्पत्तिविनाशौ नतु तदनभिमानिनोऽकार्यस्य परमेश्वरस्येति भावः।