Sbg 8.17 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।8.17।।ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिनः कस्मात्कालपरिच्छिन्नत्वादित्याह -- मनुष्यपरिमाणेन सहस्रयुगपर्यन्त सहस्रं युगानि चतुर्युगानि पर्यन्तोऽवसानं यस्य तत्।चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति हि पौराणिकं वचनम्। तादृशं ब्रह्मणः प्रजापतेरहर्दिनं तत् ये विदुः। तथा रात्रिं युगसहस्रान्तां चतुर्युगसहस्रपर्यन्तां ये विदुरिति वर्तते। तेऽहोरात्रविदस्त एवाहोरात्रविदो योगिनो जनाः। ये तु चन्द्रार्कगत्यैव विदुस्ते नाहोरात्रविदः स्वल्पदर्शित्वादित्यभिप्रायः।