Sbg 8.14 scneel

From IKS BHU
Revision as of 12:31, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।8.14।।इयं मतिरतीव दुर्लभेति मामंस्था इत्याह -- अनन्येति। नास्ति अन्यत्र चेतो यस्यासौ अनन्यचेता इत्यनेन स्मरणे आदर उच्यते। सततमिति नैरन्तर्यम्। यो मां स्मरति नित्यश इति दीर्घकालत्वम्। यावज्जीवं स्मरतीत्यर्थः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य नित्ये योगिनामावश्यके युक्ताहारविहारादौ यमनियमादौ च युक्तस्यावहितस्य योगिनः। योगमनुतिष्ठतः।