Sbg 8.14 scanand
Sanskrit Commentary By Sri Anandgiri ।।8.14।।ननु वायुनिरोधविधुराणामुदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासंभवाद्दुर्लभा परमा गतिरापतेदिति तत्राह -- किञ्चेति। इतश्च भगवदनुस्मरणे प्रयतितव्यमित्यर्थः। सततं नित्यश इति विशेषणयोरपुनरुक्तत्वमाह -- सततमित्यादिना। उक्तमेवापौनरुक्त्यं व्यक्तीकरोति -- नेत्यादिना। जितासुरिच्छया देहं त्यजति तदितरस्तु कर्मक्षयेणैवेति विशेषं विवक्षयन्नाह -- यत इति। अनन्यचेतसं समाहितचेतसं प्रतीश्वरस्य सौलभ्यमेवमित्युच्यते।