Sbg 8.12 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।8.12।।प्रतिज्ञातमुपायं साङ्गमाह -- सर्वेति द्वाभ्याम्। सर्वाणीन्द्रियद्वाराणि संयम्य प्रत्याहृत्य। चक्षुरादिभिर्बाह्यविषयग्रहणमकुर्वन्नित्यर्थः। मनश्च हृदि निरुध्य। बाह्यविषयस्मरणमकुर्वन्नित्यर्थः। मूर्ध्नि भ्रूवोर्मध्ये प्राणमाधाय योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन्।