Sbg 8.8 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।8.8।।संततस्मरणस्य चाभ्यासोऽन्तरङ्गसाधनमिति दर्शयन्नाह -- अभ्यासेति। अभ्यासः सजातीयप्रत्ययप्रवाहः स एव योग उपायस्तेन युक्तेनैकाग्रेण अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन चेतसा दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन् हे पार्थ तमेव यातीति।