Sbg 8.8 scram
Sanskrit Commentary By Sri Ramanuja ।।8.8।।अहरहः अभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन् माम् एव याति आदिभरतमृगत्वप्राप्तिवत् ऐश्वर्यविशिष्टतया मत्समानाकारो भवति।अभ्यासो नित्यनैमित्तिकाविरुद्वेषु सर्वेषु कालेषु मनसा उपास्यसंशीलनम् योगः तु अहरहः योगकाले अनुष्ठीयमानं यथोक्तलक्षणम् उपासनम्।