Sbg 7.28 scneel
Sanskrit Commentary By Sri Neelkanth ।।7.28।।केषां तर्हि सार्वज्ञ्यं भवतीत्याशङ्क्याह येषां त्विति द्वाभ्याम्। येषां पुनर्जनानां पुण्यकर्मणां पापं अन्तगतं अन्तं नाशं प्राप्तं।द्वितीया श्रिता इति समासः। ते द्वन्द्वमोह उक्तलक्षणस्तेन निर्मुक्ताः सन्तः प्रथमं दृढव्रताः शमदमादिदार्ढ्य भाजो भूत्वा मां भजन्ते।