Sbg 7.23 scsri

From IKS BHU
Revision as of 12:26, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।7.23।।तदेव यद्यपि सर्वा अपि देवता ममैव मूर्तयः अतस्तदाराधनमपि वस्तुतो मदाराधनमेव तत्तत्फलदातापि चाहमेव तथापि साक्षान्मद्भक्तानां च तेषां फलवैषम्यं भवतीत्याह अन्तवत्त्विति। अल्पमेधसां परिच्छिन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवद्विनाशि भवति। तदेवाह। देवान्यजन्तीति देवयजः ते देवानन्तवतो यान्ति। मद्भक्तास्तु मामनाद्यन्तं तं परमानन्दं प्राप्नुवन्ति।