Sbg 7.22 scdhan
Sanskrit Commentary By Sri Dhanpati ।।7.22।।यो यां देवतातनुं अर्चितुमिच्छति स तया मद्विहितयाऽचलया श्रद्धया युक्तः तस्या देवतातन्वा राधनं आराधनमर्जनमीहते चेष्टते करोति। ततस्तस्या आराधितायाः देवतातन्वाः सकाशादवश्यं कामानीप्सितान् लभते च। हि यस्मान्मया कर्मफलविभागज्ञेन भगवता विहिताः निर्मिताः। अतस्तान् हि स्फुटमेतदिति तु तत्तद्देवतास्वातन्ज्ञत्र्यप्रतिपादकशास्त्रे लोके चास्यास्फुटत्वादाचार्यैर्न व्याख्यातम्। हितानिति पदच्छेदे तु वस्तुतोऽहितानां कामानां हितत्वमौपचारिकं कल्पनीयम्।